Davanal Sanharan Stotram दावानल संहरण स्तोत्रम्
Listen now
Description
Davanal Sanharan Stotram दावानल संहरण स्तोत्रम् ◆ यथा संरक्षितं ब्रह्मन् सर्वापत्स्वेव नः कुलम् । तथा रक्षां कुरु पुनर्दावाग्रेर्मधुसूदन ॥ १ ॥ त्वमिष्टदेवतास्माकं त्वमेव कुलदेवता । वन्हिर्वा वरुणो वापि चन्द्रौ वा सूर्य एव वा ॥ २ ॥ यमः कुबेरः पवन ईशानाद्याश्र्च देवताः । ब्रह्मेशशेषधर्मेन्द्रा मुनीन्द्रा मनवः स्मृता: ॥ ३ ॥ मानवाश्र्च तथा दैत्या यक्षराक्षसकिन्नराः । ये ये चराचराश्र्चैव सर्वे तव विभूतयः ॥ ४ ॥ स्रष्टा पाता च संहर्ता जगतां च जगत्पते । आविर्भावस्तिरोभावः सर्वेषां च तवेच्छया ॥ ५ ॥ अभयं देहि गोविन्द वन्हिसंहरण कुरु । वयं त्वां शरणं यामो रक्ष नः शरणागतान् ॥ ६ ॥ इत्येवमुक्त्वा ते सर्वे तस्थुर्ध्यात्वा पदाम्बुजम् । दूरीकृतश्र्च दावाग्निः श्रीकृष्णामृतदृष्टितः ॥ ७ ॥ दूरीभूतेऽत्र दावाग्नौ विपत्तौ प्राणसंकटे । स्तोत्रमेतत् पठित्वा च मुच्यते नात्र संशयः ॥ ८ ॥ शत्रुसैन्यं क्षयं याति सर्वत्र विजयी भवेत् । इहलोके हरेर्भक्तिमन्ते दास्यं लभेद् ध्रुवम् ॥ ९ ॥ ॥ इति श्रीब्रह्मवैवर्तपुराणे श्रीकृष्णजन्मखंडे दावानल संहरण स्तोत्रम् संपूर्णम् ॥
More Episodes
Shri Amba Stuti श्री अम्बा स्तुति ★ चाञ्चल्यारुणलोचनाञ्चितकृपां चन्द्रार्धचूडामणिं चारुस्मेरमुखां चराचरजगत्संरक्षणे तत्पराम् । चञ्चच्चम्पकनासिकाग्रविलसन्मुक्तामणीरञ्जितां श्रीशैलस्थलवासिनीं भगवतीं श्रीमातरं भावये ॥ १ ॥ कस्तूरीतिलकाञ्चितेन्दुविलसत्प्रोद्भासिफालस्थलीं...
Published 05/01/24
Panch Mahaguru Bhakti (Sanskrit) पञ्च महागुरु भक्ति (संस्कृत) ★ श्रीमदमरेन्द्र मुकुट प्रघटित मणि किरणवारिधाराभिः । प्रक्षालित-पद-युगलान् प्रणमामि जिनेश्वरान् भक्त्या ॥१॥ शोभा सम्पन्न - अमरेन्द्र के मुकुटों में लगी मणियों की किरणरूपी जलधारा से जिनके चरण युगल धुले हैं ऐसे जिनेश्वर को भक्ति से मैं...
Published 04/30/24