Kamakhya Stotra कामाख्या स्तोत्र
Listen now
Description
Kamakhya Stotra कामाख्या स्तोत्र ◆ जय कामेशि चामुण्डे जय भूतापहारिणि जय सर्वगते देवि कामेश्वरि नमोऽस्तु ते ॥ विश्वमूर्ते शुभे शुद्धे विरुपाक्ष त्रिलोचने । भीमरुपे शिवे विद्ये कामेश्वरि नमोऽस्तु ते ॥ मालाजये जये जम्भे भूताक्षि क्षुभितेऽक्षये । महामाये महेशानि कामेश्वरि नमोऽस्तु ते ॥ कालि कराल विक्रान्ते कामेश्वरि नमोऽस्तु ते ॥ कालि कराल विक्रान्ते कामेश्वरि हरप्रिये । सर्व्वशास्त्रसारभूते कामेश्वरि नमोऽस्तु ते ॥ कामरुप प्रदीपे च नीलकूट निवासिनि । निशुम्भ - शुम्भमथनि कामेश्वरि नमोऽस्तु ते ॥ सर्व्वशास्त्रसारभूते कामेश्वरि नमोऽस्तु ते ॥ कामरुप प्रदीपे च नीलकूट निवासिनि । निशुम्भ - शुम्भमथनि कामेश्वरि नमोऽस्तु ते ॥ कामाख्ये कामरुपस्थे कामेश्वरि हरिप्रिये । कामनां देहि में नित्यं कामेश्वरि नमोऽस्तु ते ॥ वपानाढ्यवक्त्रे त्रिभुवनेश्वरि महिषासुरवधे देवि कामेश्वरि नमोऽस्तु ते ॥ छागतुष्टे महाभीमे कामख्ये सुरवन्दिते । जय कामप्रदे तुष्टे कामेश्वरि नमोऽस्तु ते ॥ भ्रष्टराज्यो यदा राजा नवम्यां नियतः शुचिः अष्टम्याच्च चतुदर्दश्यामुपवासी नरोत्तमः ॥ संवत्सरेण लभते राज्यं निष्कण्टकं पुनः य इदं श्रृणुवादभक्त्या तव देवि समुदभवम् ॥ सर्वपापविनिर्मुक्तः परं निर्वाणमृच्छति । श्रीकामरुपेश्वरि भास्करप्रभे, प्रकाशिताम्भोजनिभायतानने । सुरारि - रक्षः - स्तुतिपातनोत्सुके, त्रयीमये देवनुते नमामि सितसिते रक्तपिशङ्गविग्रहे, रुपाणि यस्याः प्रतिभान्ति तानि विकाररुपा च विकल्पितानि, शुभाशुभानामपि तां नमामि ॥ • कामरुपसमुदभूते कामपीठावतंसके । विश्वाधारे महामाये कामेश्वरि नमोऽस्तु ते ॥ अव्यक्त विग्रहे शान्ते सन्तते कामरुपिणि । कालगम्ये परे शान्ते कामेश्वरि नमोऽस्तु ते ॥ या सुष्मुनान्तराल
More Episodes
Shri Amba Stuti श्री अम्बा स्तुति ★ चाञ्चल्यारुणलोचनाञ्चितकृपां चन्द्रार्धचूडामणिं चारुस्मेरमुखां चराचरजगत्संरक्षणे तत्पराम् । चञ्चच्चम्पकनासिकाग्रविलसन्मुक्तामणीरञ्जितां श्रीशैलस्थलवासिनीं भगवतीं श्रीमातरं भावये ॥ १ ॥ कस्तूरीतिलकाञ्चितेन्दुविलसत्प्रोद्भासिफालस्थलीं...
Published 05/01/24
Panch Mahaguru Bhakti (Sanskrit) पञ्च महागुरु भक्ति (संस्कृत) ★ श्रीमदमरेन्द्र मुकुट प्रघटित मणि किरणवारिधाराभिः । प्रक्षालित-पद-युगलान् प्रणमामि जिनेश्वरान् भक्त्या ॥१॥ शोभा सम्पन्न - अमरेन्द्र के मुकुटों में लगी मणियों की किरणरूपी जलधारा से जिनके चरण युगल धुले हैं ऐसे जिनेश्वर को भक्ति से मैं...
Published 04/30/24