Shiv Kshamapana Stotram शिवक्षमापण स्तोत्रम्
Listen now
Description
Shiv Kshamapana Stotram शिवक्षमापण स्तोत्रम् ◆ ॐ गौरीश्वराय भुवनत्रयकारणाय भक्तप्रियाय भवभीतिभिदे भवाय । शर्वाय दुःखशमनाय वृषध्वजाय रुद्राय कालदहनाय नमः शिवाय ॥ १॥ सर्वेश्वरत्वे सति भस्मशायिने ह्युमापतित्वे सति चोर्ध्वरेतसे । वित्तेशभृत्ये सति चर्मवाससे निवृत्तरागाय नमस्तपस्विने ॥ २॥ ओङ्कारेण विहीनस्य नित्यमुद्विग्नचेतसः । तापत्रयाग्नितप्तस्य त्राणं कुरु महेश्वर ॥ ३॥ कायपोषणसक्तस्य रोगशोकाकुलस्य च । भवार्णवनिमग्नस्य त्राणं कुरु महेश्वर ॥ ४॥ मदनोरगदष्टस्य क्रोधाग्निज्वलि तस्य च । लोभमोहादिसक्तस्य त्राणं कुरु महेश्वर ॥ ५॥तृष्णाशृङ्खलया नाथ बद्धस्य भवपञ्जरे । कृपार्द्रदीनचित्तस्य त्राणं कुरु महेश्वर ॥ ६॥ भटैर्नानाविधैर्घोरैर्यमस्याज्ञाविधायकैः । तां दिशं नीयमानस्य त्राणं कुरु महेश्वर ॥ ७॥दुष्टस्य नष्टचित्तस्य श्रेष्ठमार्गोज्झितस्य च । अनाथस्य जगन्नाथ त्राणं कुरु महेश्वर ॥ ८॥संसारपाशदृढबन्धनपीडितस्य मोहान्धकारविषमेषु निपातितस्य । कामार्दितस्य भयरागखलीकृतस्य दीनस्य मे कुरु दयां परलोकनाथ ॥ ९॥ दीनोऽस्मि मन्दधिषणो ऽस्मि निराश्रयोऽस्मि दासोऽस्मि साधुजनतापरिवर्जितोऽस्मि । दुष्टोऽस्मि दुर्भगतमोऽस्मि गतत्रपोऽ स्मि धर्मोज्झितोऽस्मि विकलोऽस्मि कलङ्कितोऽस्मि ॥ १०॥ भीतोऽस्मि भङ्गुरतमोऽस्मि भयानकोऽस्मि शङ्काशतव्यतिकराकुलचेतनोऽस्मि । रागादिदोषनिकरैर्मुखरीकृतोऽस्मि सत्यादि शौचनियमैः परिवर्जितोऽस्मि ॥ ११॥ जन्माटवीभ्रमणमारुतखेदितोऽस्मि नित्यामयोस्म्यऽ शरणो स्म्यऽसमञ्जसोऽस्मि । आशानिरङ्कुशपिशाचिकयार्दितोऽस्मि हास्योऽस्मि हा पशुपते शरणागतोऽस्मि ॥ १२॥ हा हतोऽस्मि विनष्टोऽस्मि दष्टोऽस्मि चपलेन्द्रियैः । भवार्णवनिमग्नोऽस्मि किं त्रातुं मम नार्हसि ॥ १३॥ यदि
More Episodes
Shri Amba Stuti श्री अम्बा स्तुति ★ चाञ्चल्यारुणलोचनाञ्चितकृपां चन्द्रार्धचूडामणिं चारुस्मेरमुखां चराचरजगत्संरक्षणे तत्पराम् । चञ्चच्चम्पकनासिकाग्रविलसन्मुक्तामणीरञ्जितां श्रीशैलस्थलवासिनीं भगवतीं श्रीमातरं भावये ॥ १ ॥ कस्तूरीतिलकाञ्चितेन्दुविलसत्प्रोद्भासिफालस्थलीं...
Published 05/01/24
Panch Mahaguru Bhakti (Sanskrit) पञ्च महागुरु भक्ति (संस्कृत) ★ श्रीमदमरेन्द्र मुकुट प्रघटित मणि किरणवारिधाराभिः । प्रक्षालित-पद-युगलान् प्रणमामि जिनेश्वरान् भक्त्या ॥१॥ शोभा सम्पन्न - अमरेन्द्र के मुकुटों में लगी मणियों की किरणरूपी जलधारा से जिनके चरण युगल धुले हैं ऐसे जिनेश्वर को भक्ति से मैं...
Published 04/30/24